N JOY TOUR INDIA

N JOY TOUR INDIA all is well

11/06/2026

अब वह तथाकथित ब्रह्मचारी खुद मुकदमें को झूठा बता रहा है,
जो पूज्य शंकराचार्य जी महाराज का चरित्र हनन करने वाले का साथ दे रहे थे। तुम सनातनी नहीं हो तुम सत्ता की हाँ में हां मिलाने वाले गुलाम हो। शर्म करो

11/06/2026

||ॐ || सहस्र शीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वै नारायणं देवं अक्षरं परमं पदम् ॥

विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् ।
विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥

पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥

नारायण परो ज्योतिरात्मा नारायणः परः ।
नारायण परं ब्रह्म तत्त्वं नारायणः परः ।
नारायण परो ध्याता ध्यानं नारायणः परः ॥

यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशंभुवम् ।
पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥
अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति ।
ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥

सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् ।
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥

तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः ।
सोऽग्रविभजंतिष्ठन् आहारं अजरः कविः ॥

तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता ।
सन्तापयति स्वं देहमापादतलमास्तकः ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥

नीलतोयद-मध्यस्थ-द्विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट् ॥

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
ॐ शांति शांति शांतिः

11/06/2026
30/05/2026

🌹🙏|| श्री शनिवज्रपञ्जर कवचं ||🙏🌹
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितास्त्रकरो धनुष्मान् |
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्याद्वरदः प्रशान्तः ||

ब्रह्मा उवाच:|
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् |
कवचं शनिराजस्य सौरैरिदमनुत्तमं ||

कवचं देवतावासं वज्र पञ्जर संङ्गकम् |
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ||

अथ श्री शनि वज्र पञ्जर कवचम् |
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः |
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः || 1 ||

नासां वैवस्वतः पातु मुखं मे भास्करः सदा |
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः || 2 ||

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा || 3 ||

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा |
ऊरू ममान्तकः पातु यमो जानुयुगं तथा || 4 ||

पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः |
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः || 5 ||

फलश्रुतिः
इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ||

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा |
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ||

अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठते नित्यं न पीडा जायते क्वचित् ||

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा |
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा |
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ||

|| इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे
शनिवज्रपञ्जर कवचं सम्पूर्णम् ||

Address

Shanti Kunj Road, Near Saptrishi Gosala
Haridwar
249410

Website

Alerts

Be the first to know and let us send you an email when N JOY TOUR INDIA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category